अ॒श्विभ्यां॑ प्रातः सव॒नमिन्द्रे॑णै॒न्द्रं माध्यं॑न्दिनम् । वै॒श्व॒दे॒वᳪ सर॑स्वत्या तृ॒तीय॑मा॒प्तᳪ सव॑नम्
aśvíbhyāṃ prātáḥ-savanám índreṇáindraṃ mā́dhyandinam | vaiśvadevám sárasvatyā tṛtī́yam ā́ptaṃ savanám ||
अश्विनौ के साथ प्रातः-सवन होता है; इन्द्र के साथ मध्यन्दिन का ऐन्द्र-सवन। विश्वदेवों के साथ, सरस्वती के साथ, तृतीय सवन यथाविधि प्राप्त होता है।
अ॒श्विभ्या॑म् । प्रा॒तः । स॒व॒नम् । इन्द्रे॑ण । ऐ॒न्द्रम् । माध्यं॑न्दिनम् । वै॒श्व॒दे॒वम् । सर॑स्वत्या । तृ॒तीय॑म् । आ॒प्तम् । स॒व॒नम् ।