पृ॒ष्टो दि॒वि पृ॒ष्टो अ॒ग्निः पृ॑थि॒व्यां पृ॒ष्टो विश्वा॒ ओष॑धी॒रा वि॑वेश । वै॒श्वा॒न॒रः सह॑सा पृ॒ष्टो अ॒ग्निः स नो॒ दिवा॒ स रि॒षस्पा॑तु॒ नक्त॑म् ॥
pṛṣṭó diví pṛṣṭó agníḥ pṛthivyā́ṃ pṛṣṭó víśvā oṣádhīr ā́ viveśa | vaiśvānaráḥ sáhasā pṛṣṭó agníḥ sá no divā́ sá riṣás pātu náktam ||
दिवि में पृष्ट (छिड़का/अभिषिक्त) अग्नि है; पृथ्वी पर भी पृष्ट होकर वह समस्त ओषधियों में प्रविष्ट हुआ। सहसा पृष्ट वैश्यवानर अग्नि—वह हमें दिन में अहिंसा-रक्षा करे, और रात्रि में भी अनिष्ट से बचाए।
पृष्टः । दिवि । पृष्टः । अग्निः । पृथिव्याम् । पृष्टः । विश्वाः । ओषधीः । आ । विवेश । वैश्वानरः । सहसा । पृष्टः । अग्निः । सः । नः । दिवा । सः । रिषः । पातु । नक्तम् ।