यत्र॑ बा॒णाः स॒म्पत॑न्ति कुमा॒रा वि॑शि॒खा इ॑व । तन्न॒ इन्द्रो॒ बृह॒स्पति॒रदि॑ति॒: शर्म॑ यच्छतु वि॒श्वाहा॒ शर्म॑ यच्छतु
yátra bāṇā́ḥ sámpatanti kumārā́ viśikhā́ iva | tán na índro bṛ́haspátir áditiḥ śárma yacchatu viśvā́hā śárma yacchatu
जहाँ बाण एक साथ आकर गिरते हैं, मानो कुमारों द्वारा छोड़े गए हों—वहीं, (मानो कुंठित होकर) इन्द्र, बृहस्पति और अदिति हमें शरण दें; और विश्वाहा—हमारे समस्त दिनों में—हमें शरण दें।
यत्र । बाणाः । सम्पतन्ति । कुमाराः । विशिखाः । इव । तत् । नः । इन्द्रः । बृहस्पतिः । अदितिः । शर्म । यच्छतु । विश्वाहा । शर्म । यच्छतु ।