स्वैर्दक्षै॒र्दक्ष॑पिते॒ह सी॑द दे॒वाना॑ᳪ सु॒म्ने बृ॑ह॒ते रणा॑य । पि॒तेवै॑धि सू॒नव॒ आ सु॒शेवा॑ स्वावे॒शा त॒न्वा सं वि॑शस्वा॒श्विना॑ऽध्व॒र्यू सा॑दयतामि॒ह त्वा॑
svā́ir dákṣair dákṣa-pitehá sīda devā́nāṃ sumné bṛhaté raṇā́ya | pitévā́idhi sūnáva ā́ suśévā svāveśā́ tanvā́ sáṃ viśasva | aśvínā ’dhvaryū sādáyatām ihá tvā́
हे दक्षपितः! अपने ही सामर्थ्यों और दक्षताओं से यहाँ विराजो—देवों के सुम्न (अनुग्रह) में, महान् आनन्द/रण के हेतु। पिता के समान पुत्रों पर स्नेहशील हो; अपने स्व-आवास/स्व-स्थान में, अपने शरीर सहित, एकत्व में समा जा। अश्विनौ—अध्वर्यु—यहाँ तुम्हें आसीन कराएँ।
स्वैः । दक्षैः । दक्ष-पिते । इह । सीद । देवानाम् । सुम्ने । बृहते । रणाय । पितेव । एधि । सूनवे । आ । सु-शेवा । स्व-आवेशाः । तन्वा । सम् । विशस्व । अश्विना । अध्वर्यू इति । सादयताम् । इह । त्वा ।