अ॒जो ह्य॒ग्नेरज॑निष्ट॒ शोका॒त्सो अ॑पश्यज्जनि॒तार॒मग्रे॑ । तेन॑ दे॒वा दे॒वता॒मग्र॑मायँ॒स्तेन॒ रोह॑माय॒न्नुप॒ मेध्या॑सः । श॒र॒भमा॑र॒ण्यमनु॑ ते दिशामि॒ तेन॑ चिन्वा॒नस्त॒न्वो नि षी॑द । श॒र॒भं ते॒ शुगृ॑च्छतु॒ यं द्वि॒ष्मस्तं ते॒ शुगृ॑च्छतु
a̱jó hy a̱gnér ájanīṣṭa śókā́t so a̍paśyaj janitā́ram ágre | téna devā́ devátām ágram āyaṃs téna róham āyaṃn úpa medhyā́saḥ | śarábham āraṇyám ánu te diśāmi téna cinvānáḥ tanvò ní ṣīda | śarábhaṃ te śúg ṛcchatu yáṃ dviṣmás táṃ te śúg ṛcchatu
अजन्मा होकर भी वह अग्नि से शोक की ज्वाला से उत्पन्न हुआ; और आरम्भ में उसने जनक को देखा। उसी के द्वारा देवगण अग्रतम देवत्व तक पहुँचे; उसी के द्वारा मेध्य (दीक्षित) जन आरोहण के समीप आए। तेरे पीछे मैं वन्य शरभ को नियोजित करता हूँ; उसी के द्वारा, अपने शरीर का निर्माण करता हुआ, तू स्थिर होकर बैठ जा। शरभ की तीक्ष्णता (शुग्) तुझे प्राप्त हो; और जिसे हम द्वेष करते हैं, उसी को तेरी वही तीक्ष्णता प्राप्त हो।
अ॒जः । हि । अ॒ग्नेः । अ॒ज॑निष्ट । शोका॑त् । सः । अ॒प॒श्य॒त् । ज॒नि॒तार॑म् । अग्रे॑ । तेन॑ । दे॒वाः । दे॒वता॑म् । अग्र॑म् । आ॒य॒न् । तेन॑ । रोह॑म् । आ॒य॒न् । उप॑ । मेध्या॑सः । श॒र॒भम् । आ॒र॒ण्यम् । अनु॑ । ते॒ । दि॒शा॒मि॒ । तेन॑ । चि॒न्वा॒नः । त॒न्वः॑ । नि । षी॑द । श॒र॒भम् । ते॒ । शुक् । गृ॒च्छ॒तु॒ । यम् । द्वि॒ष्मः । तम् । ते॒ । शुक् । गृ॒च्छ॒तु॒