यस्या॑स्ते घोर आ॒सञ्जु॒होम्ये॒षां ब॒न्धाना॑मव॒सर्ज॑नाय । यां त्वा॒ जनो॒ भूमि॒रिति॑ प्र॒मन्द॑ते॒ निरृ॑तिं त्वा॒ऽहं परि॑वेद वि॒श्वत॑:
yásyās te ghóre āsáñ juhómy eṣā́ṃ bandhā́nām avasárjanāya | yā́ṃ tvā jánō bhū́mir íti pramándate nirṛ́tiṃ tvā ’háṃ parivēde viśvátas
हे घोर (देवी), जिनके ये बन्धन हैं, उन्हीं को मैं आहुति देता हूँ—इन बन्धनों के विसर्जन हेतु। जिसे जन ‘भूमि’ कहकर प्रमुदित होते हैं, उस निरृति को मैं सर्वतः परिवेष्टित कर (दूर) करता हूँ।
यस्याः । ते । घोरे । आसन् । जुहोमि । एषाम् । बन्धानाम् । अव-सर्जनाय । याम् । त्वा । जनः । भूमिः । इति । प्र-मन्दते । निरृतिम् । त्वा । अहम् । परि-वेदे । विश्वतः ।