अग्रे॑ बृ॒हन्नु॒षसा॑मू॒र्ध्वो अ॑स्थान्निर्जग॒न्वान् तम॑सो॒ ज्योति॒षाऽऽगा॑त् । अ॒ग्निर्भा॒नुना॒ रुश॑ता॒ स्वङ्ग॒ आ जा॒तो विश्वा॒ सद्मा॑न्यप्राः
ágre bṛhánn uṣásām ūrdhvó asthān nirjagánvān támaso jyótiṣā́ ’gāt | agnír bhānúnā rúśatā sváṅga ā́ jātó víśvā́ sádmāny aprāḥ ||
प्रारम्भ में महान् (अग्नि) उषाओं के बीच ऊर्ध्व खड़ा हुआ; तमस् से निकलकर वह ज्योति के साथ आया। अग्नि अपनी दीप्त किरण से, सुन्दर-अङ्ग, जन्म लेते ही समस्त सद्मों और निवास-स्थानों को परिपूर्ण कर देता है।
अग्रे । बृहन् । उषसाम् । ऊर्ध्वः । अस्थात् । निर्जगन्वान् । तमसः । ज्योतिषा । आ । अगात् । अग्निः । भानुना । रुशता । स्वङ्गः । आ । जातः । विश्वा । सद्मानि । अप्राः