प॒र॒मस्या॑: परा॒वतो॑ रो॒हिद॑श्व इ॒हा ग॑हि । पु॒री॒ष्य॒: पुरुप्रि॒योऽग्ने॒ त्वं त॑रा॒ मृध॑:
paramásyāḥ parāvató rohídaśva ihā́ gahi | purīṣyáḥ purupriyó’gne tváṃ tarā́ mṛ́dhaḥ
परम दूर प्रदेश से, हे रोहित-अश्वों वाले अग्नि, यहाँ आ। पुरिष्य (समृद्धि/पोषक तत्त्वों से युक्त), बहुप्रिय—हे अग्नि, शत्रुताओं (मृध) के पार तू हमें तार दे।
परमस्याः । परा-वत॑ः । रोहिद-अश्वः । इह । आ । गहि । पुरीष्यः । पुरु-प्रियः । अग्ने । त्वम् । तर । मृधः