त्वम॑ग्ने॒ द्युभि॒स्त्वमा॑शुशु॒क्षणि॒स्त्वम॒द्भ्यस्त्वमश्म॑न॒स्परि॑ । त्वं वने॑भ्य॒स्त्वमोष॑धीभ्य॒स्त्वं नृ॒णां नृ॑पते जायसे॒ शुचि॑:
tvám agne dyúbhis tvám āśuśukṣáṇis tvám adbhyás tvám aśmánas pári | tváṃ vanébhyás tvám óṣadhībhyás tváṃ nṛṇā́ṃ nṛ́pate jāyase śúciḥ ||
हे अग्नि! तू द्युभिः—दिव्य ज्योतियों के साथ है; तू आशुशुक्षणि—शीघ्र प्रज्वलित होने वाला है; तू अद्भ्यः—जल से उत्पन्न है; तू अश्मनः परि—पाषाण के चारों ओर से (घर्षण से) प्रकट होता है। तू वनों से, तू औषधियों से; हे नृपते! तू मनुष्यों में शुचि—पवित्र होकर जन्म लेता है।
त्वम् । अग्ने । द्युभिः । त्वम् । आशु-शुक्षणिः । त्वम् । अद्भ्यः । त्वम् । अश्मनः । परि । त्वम् । वनेभ्यः । त्वम् । ओषधीभ्यः । त्वम् । नृणाम् । नृ-पते । जायसे । शुचिः ।