आ॒क्रम्य॑ वाजिन् पृथि॒वीम॒ग्निमि॑च्छ रु॒चा त्वम् । भूम्या॑ वृ॒त्वाय॑ नो ब्रूहि॒ यत॒: खने॑म॒ तं व॒यम्
ākrámya vājin pṛthivī́m agním iccha rucā́ tvám | bhū́myā vṛtvā́ya no brūhi yátáḥ khánema táṃ vayám
हे वाजिन् (बलवान्), पृथ्वी पर पग रखकर तू अपनी रुचा (दीप्ति) से अग्नि को खोज। पृथ्वी से उसे आवृत करके हमें बता कि हम कहाँ से खोदें—उसी दिशा में हम खोदेंगे।
आ॒क्रम्य॑ । वा॒जि॒न् । पृ॒थि॒वीम् । अ॒ग्निम् । इ॒च्छ॒ । रु॒चा । त्वम् । भूम्या॑ । वृ॒त्वाय॑ । नः॒ । ब्रू॒हि॒ । यतः॑ । खने॑म । तम् । व॒यम् ।