Sukta 8.15
त्वां विष्णुर्बृहन्क्षयो मित्रो गृणाति वरुणः । त्वां शर्धो मदत्यनु मारुतम् ॥
त्वां विष्णु॑र्बृ॒हन्क्षयो॑ मि॒त्रो गृ॑णाति॒ वरु॑णः । त्वां शर्धो॑ मद॒त्यनु॒ मारु॑तम् ॥
tvā́ṃ viṣṇúr bṛhán-kṣáyo mitró gṛṇāti váruṇaḥ | tvā́ṃ śárdho madáty ánu mārútam ||
विष्णु—वृहन्-क्षय (विस्तृत-निवासी), मित्र और वरुण तेरा स्तवन करते हैं; और मरुत-शर्ध (मरुत-गण) आनंद में तेरे पीछे चलता है।
त्वाम् । विष्णुः॑ । बृ॒हन् । क्षयः॑ । मि॒त्रः । गृ॒णा॒ति॒ । वरु॑णः । त्वाम् । शर्धः॑ । म॒द॒ति॒ । अनु॑ । मारु॑तम् ॥त्वाम् । विष्णुः । बृहन् । क्षयः । मित्रः । गृणाति । वरुणः । त्वाम् । शर्धः । मदति । अनु । मारुतम् ॥tvām | viṣṇuḥ | bṛhan | kṣayaḥ | mitraḥ | gṛṇāti | varuṇaḥ | tvām | śardhaḥ | madati | anu | mārutam