Sukta 8.15
यदिन्द्र मन्मशस्त्वा नाना हवन्त ऊतये । अस्माकेभिर्नृभिरत्रा स्वर्जय ॥
यदि॑न्द्र मन्म॒शस्त्वा॒ नाना॒ हव॑न्त ऊ॒तये॑ । अ॒स्माके॑भि॒र्नृभि॒रत्रा॒ स्व॑र्जय ॥
yád indra manmaśás tvā nā́nā havanta ūtáye | asmā́kebhir nṛ́bhir átrā́ svàr jaya ||
हे इन्द्र! जब मनुष्यों के मन अनेक प्रकार से सहायता के लिए तुम्हें पुकारते हैं, तब हमारे इन वीर नर-सेवकों के साथ यहाँ स्वर्ग-लोक (स्वर्) को जीत—हमारे लिए सत्य के प्रकाश को जीत।
यत् । इ॒न्द्र॒ । म॒न्म॒ऽशः । त्वा॒ । नाना॑ । हव॑न्ते । ऊ॒तये॑ । अ॒स्माके॑भिः । नृऽभिः॑ । अत्र॑ । स्वः॑ । ज॒य॒ ॥यत् । इन्द्र । मन्मशः । त्वा । नाना । हवन्ते । ऊतये । अस्माकेभिः । नृभिः । अत्र । स्वः । जय ॥yat | indra | manma-śaḥ | tvā | nānā | havante | ūtaye | asmākebhiḥ | nṛ-bhiḥ | atra | svaḥ | jaya