Sukta 6.62
ता भुज्युं विभिरद्भ्यः समुद्रात्तुग्रस्य सूनुमूहथू रजोभिः । अरेणुभिर्योजनेभिर्भुजन्ता पतत्रिभिरर्णसो निरुपस्थात् ॥
ता भु॒ज्युं विभि॑र॒द्भ्यः स॑मु॒द्रात्तुग्र॑स्य सू॒नुमू॑हथू॒ रजो॑भिः । अ॒रे॒णुभि॒र्योज॑नेभिर्भु॒जन्ता॑ पत॒त्रिभि॒रर्ण॑सो॒ निरु॒पस्था॑त् ॥
tā bhujyúṃ ví-bhir adbhyáḥ samudrā́t túgrasya sūnúm ūhathū rájo-bhiḥ | areṇú-bhir yójanebhir bhujántā patatrí-bhir árṇaso nír upa-sthā́t ||
वे दोनों (अश्विनौ) तुग्र के पुत्र भुज्यु को जलों से, समुद्र से, अपने विस्तृत रजस्-प्रदेशों के द्वारा बाहर ले आए। निःशब्द गतियों और मापे हुए योजनों से, पंखों वाले साधनों का आस्वाद लेते हुए, उन्होंने उसे बाढ़ के अंक से निकाल लिया।
ता । भु॒ज्युम् । विऽभिः॑ । अ॒त्ऽभ्यः । स॒मु॒द्रात् । तुग्र॑स्य । सू॒नुम् । ऊ॒ह॒थुः॒ । रजः॑ऽभिः । अ॒रे॒णुऽभिः॑ । योज॑नेभिः । भु॒जन्ता॑ । प॒त॒त्रिऽभिः॑ । अर्ण॑सः । निः । उ॒पऽस्था॑त् ॥ता । भुज्युम् । विभिः । अत्भ्यः । समुद्रात् । तुग्रस्य । सूनुम् । ऊहथुः । रजःभिः । अरेणुभिः । योजनेभिः । भुजन्ता । पतत्रिभिः । अर्णसः । निः । उपस्थात् ॥tā | bhujyum | vi-bhiḥ | at-bhyaḥ | samudrāt | tugrasya | sūnum | ūhathuḥ | rajaḥ-bhiḥ | areṇu-bhiḥ | yojanebhiḥ | bhujantā | patatri-bhiḥ | arṇasaḥ | niḥ | upa-sthāt