Sukta 6.16
अग्निं देवासो अग्रियमिन्धते वृत्रहन्तमम् । येना वसून्याभृता तृळ्हा रक्षांसि वाजिना ॥
अ॒ग्निं दे॒वासो॑ अग्रि॒यमि॒न्धते॑ वृत्र॒हन्त॑मम् । येना॒ वसू॒न्याभृ॑ता तृ॒ळ्हा रक्षां॑सि वा॒जिना॑ ॥
agníṃ devā́so agriyám índhate vṛtra-hán-tamam | yéna vasū́ny ā́bhṛtā tṛḷhā́ rakṣā́ṃsi vā́jinā ||
देवगण अग्रणी, अग्रगण्य अग्नि को प्रज्वलित करते हैं—वह वृत्रहन् में सर्वाधिक प्रबल है। उसी के द्वारा वसु लाए जाते हैं, और वाजिन-बल से दृढ़ रक्षांसि कुचले जाते हैं।
अ॒ग्निम् । दे॒वासः॑ । अ॒ग्रि॒यम् । इ॒न्धते॑ । वृ॒त्र॒हन्ऽत॑मम् । येन॑ । वसू॑नि । आऽभृ॑ता । तृ॒ळ्हा । रक्षां॑सि । वा॒जिना॑ ॥अग्निम् । देवासः । अग्रियम् । इन्धते । वृत्रहन्तमम् । येन । वसूनि । आभृता । तृळ्हा । रक्षांसि । वाजिना ॥agnim | devāsaḥ | agriyam | indhate | vṛtrahan-tamam | yena | vasūni | ābhṛtā | tṛḷhā | rakṣāṃsi | vājinā