Sukta 6.16
त्वामग्ने पुष्करादध्यथर्वा निरमन्थत । मूर्ध्नो विश्वस्य वाघतः ॥
त्वाम॑ग्ने॒ पुष्क॑रा॒दध्यथ॑र्वा॒ निर॑मन्थत । मू॒र्ध्नो विश्व॑स्य वा॒घत॑: ॥
tvā́m agne púṣkarād ádhy átharvā nír amanthata | mūrdhnó víśvasya vā́ghataḥ ||
हे अग्नि, तुम्हें अथर्वा ने पुष्कर-सर से मथा कर निकाला—समस्त वाघत (यजमान/स्तोता) के मस्तक-शिखर से।
त्वाम् । अ॒ग्ने॒ । पुष्क॑रात् । अधि॑ । अथ॑र्वा । निः । अ॒म॒न्थ॒त॒ । मू॒र्ध्नः । विश्व॑स्य । वा॒घतः॑ ॥त्वाम् । अग्ने । पुष्करात् । अधि । अथर्वा । निः । अमन्थत । मूर्ध्नः । विश्वस्य । वाघतः ॥tvām | agne | puṣkarāt | adhi | atharvā | niḥ | amanthata | mūdhnarḥ | viśvasya | vāghataḥ