Sukta 6.16
तं त्वा समिद्भिरङ्गिरो घृतेन वर्धयामसि । बृहच्छोचा यविष्ठ्य ॥
तं त्वा॑ स॒मिद्भि॑रङ्गिरो घृ॒तेन॑ वर्धयामसि । बृ॒हच्छो॑चा यविष्ठ्य ॥
táṃ tvā samíd-bhir aṅgiro ghṛténa vardhayāmasi | bṛhác-chocā yaviṣṭhya ||
हे अङ्गिरस्, हम समिधाओं और घृत-आहुति से तुम्हें बढ़ाते हैं। हे यविष्ठ (अत्यन्त नव), विशाल ज्वाला से प्रज्वलित हो।
तम् । त्वा॒ । स॒मित्ऽभिः॑ । अ॒ङ्गि॒रः॒ । घृ॒तेन॑ । व॒र्ध॒या॒म॒सि॒ । बृ॒हत् । शो॒च॒ । य॒वि॒ष्ठ्य॒ ॥तम् । त्वा । समित्भिः । अङ्गिरः । घृतेन । वर्धयामसि । बृहत् । शोच । यविष्ठ्य ॥tam | tvā | samit-bhiḥ | aṅgiraḥ | ghṛtena | vardhayāmasi | bṛhat | śoca | yaviṣṭhya