Sukta 6.15
अग्ने यदद्य विशो अध्वरस्य होतः पावकशोचे वेष्ट्वं हि यज्वा । ऋता यजासि महिना वि यद्भूर्हव्या वह यविष्ठ या ते अद्य ॥
अग्ने॒ यद॒द्य वि॒शो अ॑ध्वरस्य होत॒: पाव॑कशोचे॒ वेष्ट्वं हि यज्वा॑ । ऋ॒ता य॑जासि महि॒ना वि यद्भूर्ह॒व्या व॑ह यविष्ठ॒ या ते॑ अ॒द्य ॥
agne yád adyá víśo adhvarásya hotaḥ pā́vakaśoce véṣ ṭváṃ hí yajvā́ | ṛtā́ yajāsi mahinā́ ví yád bhū́r havyā́ vaha yaviṣṭha yā́ te adyá ||
हे अग्ने! आज, अध्वर-यात्रा के होता, हे पावक-शोचे, जब तू जनसमूहों को चारों ओर से आवृत करता है—क्योंकि तू यज्वा, सत्य यज्ञकर्ता है। तू ऋताओं के द्वारा यजन करता है; और अपनी महिमा से विस्तृत, बहुरूप हो जाता है। इसलिए, हे यविष्ठ (सबसे युवा), जो हवि आज तेरे हैं, उन्हें वहन कर।
अग्ने॑ । यत् । अ॒द्य । वि॒शः । अ॒ध्व॒र॒स्य॒ । हो॒त॒रिति॑ । पाव॑कऽशोचे । वेः । त्वम् । हि । यज्वा॑ । ऋ॒ता । य॒जा॒सि॒ । म॒हि॒ना । वि । यत् । भूः । ह॒व्या । व॒ह॒ । य॒वि॒ष्ठ॒ । या । ते॒ । अ॒द्य ॥अग्ने । यत् । अद्य । विशः । अध्वरस्य । होतरिति । पावकशोचे । वेः । त्वम् । हि । यज्वा । ऋता । यजासि । महिना । वि । यत् । भूः । हव्या । वह । यविष्ठ । या । ते । अद्य ॥agne | yat | adya | viśaḥ | adhvarasya | hotariti | pāvaka-śoce | veḥ | tvam | hi | yajvā | ṛtā | yajāsi | mahinā | vi | yat | bhūḥ | havyā | vaha | yaviṣṭha | yā | te | adya