Sukta 5.61
य ईं वहन्त आशुभिः पिबन्तो मदिरं मधु । अत्र श्रवांसि दधिरे ॥
य ईं॒ वह॑न्त आ॒शुभि॒: पिब॑न्तो मदि॒रं मधु॑ । अत्र॒ श्रवां॑सि दधिरे ॥
yá īṃ váhanta āśúbhiḥ píbanto madiráṃ mádhu | átra śrávāṃsi dadhire ||
जो उन्हें तीव्र शक्तियों से वहन करते हैं, मदिरा-सम मधु का पान करते हुए—यहीं उन्होंने अपनी दीप्त कीर्ति स्थापित की है।
ये । ई॒म् । वह॑न्ते । आ॒शुऽभिः॑ । पिब॑न्तः । म॒दि॒रम् । मधु॑ । अत्र॑ । श्रवां॑सि । द॒धि॒रे॒ ॥ये । ईम् । वहन्ते । आशुभिः । पिबन्तः । मदिरम् । मधु । अत्र । श्रवांसि । दधिरे ॥ye | īm | vahante | āśu-bhiḥ | pibantaḥ | madiram | madhu | atra | śravāṃsi | dadhire