Sukta 5.54
तद्वीर्यं वो मरुतो महित्वनं दीर्घं ततान सूर्यो न योजनम् । एता न यामे अगृभीतशोचिषोऽनश्वदां यन्न्ययातना गिरिम् ॥
तद्वी॒र्यं॑ वो मरुतो महित्व॒नं दी॒र्घं त॑तान॒ सूर्यो॒ न योज॑नम् । एता॒ न यामे॒ अगृ॑भीतशोचि॒षोऽन॑श्वदां॒ यन्न्यया॑तना गि॒रिम् ॥
tád vī́ryaṁ vo maruto mahitvánam dī́rghaṁ tatāna sū́ryo ná yójanam | etā́ ná yā́me agṛ́bhīta-śociṣo'naśvadā́m yán nyáyātanā girím ||
हे मरुतो! यह तुम्हारा वही वीर्य-बल है, वही तुम्हारी महिमा—जो सूर्य के दीर्घ पथ-प्रसार की भाँति दूर तक फैल जाती है। ऐसे ही, अनग्नि-शोचिष् (अवरोध-रहित ज्वाला) लिए तुम अपने याम (यात्रा) में चले; और अश्वों के बिना ही, अपने तेजस्वी संकल्प-बल से, तुम गिरि पर जा उतरे।
तत् । वी॒र्य॑म् । वः॒ । म॒रु॒तः॒ । म॒हि॒ऽत्व॒नम् । दी॒र्घम् । त॒ता॒न॒ । सूर्यः॑ । न । योज॑नम् । एताः॑ । न । यामे॑ । अगृ॑भीतऽशोचिषः । अन॑श्वऽदाम् । यत् । नि । अया॑तन । गि॒रिम् ॥तत् । वीर्यम् । वः । मरुतः । महित्वनम् । दीर्घम् । ततान । सूर्यः । न । योजनम् । एताः । न । यामे । अगृभीतशोचिषः । अनश्वदाम् । यत् । नि । अयातन । गिरिम् ॥tat | vīryam | vaḥ | marutaḥ | mahi-tvanam | dīrgham | tatāna | sūryaḥ | na | yojanam | etāḥ | na | yāme | agṛbhīta-śociṣaḥ | anaśva-dām | yat | ni | ayātana | giri m