Sukta 10.65
देवान्वसिष्ठो अमृतान्ववन्दे ये विश्वा भुवनाभि प्रतस्थुः । ते नो रासन्तामुरुगायमद्य यूयं पात स्वस्तिभिः सदा नः ॥
दे॒वान्वसि॑ष्ठो अ॒मृता॑न्ववन्दे॒ ये विश्वा॒ भुव॑ना॒भि प्र॑त॒स्थुः । ते नो॑ रासन्तामुरुगा॒यम॒द्य यू॒यं पा॑त स्व॒स्तिभि॒: सदा॑ नः ॥
devā́n vasiṣṭhó amṛ́tān vavande yé víśvā bhúvanābhí prá-tasthuḥ | té no rā́santām uru-gāyám adyá yūyáṃ pāta svastí-bhiḥ sádā naḥ ||
वसिष्ठ उन अमृत देवों को नमस्कार करता है, जिन्होंने समस्त भुवनों पर अपने स्थान स्थापित किए हैं। वे आज हमें व्यापक-गामी कल्याण-पथ प्रदान करें; और आप सदा स्वस्ति और सम्यक्-समरसता की शक्तियों से हमारी रक्षा करें।
दे॒वान् । वसि॑ष्ठः । अ॒मृता॑न् । व॒व॒न्दे॒ । ये । विश्वा॑ । भुव॑ना । अ॒भि । प्र॒ऽत॒स्थुः । ते । नः॒ । रा॒स॒न्ता॒म् । उ॒रु॒ऽगा॒यम् । अ॒द्य । यू॒यम् । पा॒त॒ । स्व॒स्तिऽभिः॑ । सदा॑ । नः॒ ॥देवान् । वसिष्ठः । अमृतान् । ववन्दे । ये । विश्वा । भुवना । अभि । प्रतस्थुः । ते । नः । रासन्ताम् । उरुगायम् । अद्य । यूयम् । पात । स्वस्तिभिः । सदा । नः ॥devān | vasiṣṭhaḥ | amṛtān | vavande | ye | viśvā | bhuvanā | abhi | pra-tasthuḥ | te | naḥ | rāsantām | uru-gāyam | adya | yūyam | pāta | svasti-bhiḥ | sadā | naḥ