Sukta 10.163
ऊरुभ्यां ते अष्ठीवद्भ्यां पार्ष्णिभ्यां प्रपदाभ्याम् । यक्ष्मं श्रोणिभ्यां भासदाद्भंससो वि वृहामि ते ॥
ऊ॒रुभ्यां॑ ते अष्ठी॒वद्भ्यां॒ पार्ष्णि॑भ्यां॒ प्रप॑दाभ्याम् । यक्ष्मं॒ श्रोणि॑भ्यां॒ भास॑दा॒द्भंस॑सो॒ वि वृ॑हामि ते ॥
ūrúbhyāṃ te aṣṭhīvádbhyāṃ pārṣṇíbhyāṃ prápadābhyām | yakṣmáṃ śróṇibhyāṃ bhā́sadād bhaṃsáso ví vṛhāmi te ||
तेरी जाँघों से, अस्थिमय ढाँचे से, एड़ियों और अग्रपादों से—मैं तेरे यक्ष्मा को उखाड़कर निकालता हूँ। कूल्हों से, आसन और उसके आधार से भी—मैं उसे तुझसे जड़ से उन्मूलित करता हूँ, ताकि गमन-पथ अखंड और पूर्ण हो जाए।
ऊ॒रुऽभ्या॑म् । ते॒ । अ॒ष्ठी॒वत्ऽभ्या॑म् । पार्ष्णि॑ऽभ्याम् । प्रऽप॑दाभ्याम् । यक्ष्म॑म् । श्रोणि॑ऽभ्य्म् । भास॑दात् । भंससः॑ । वि । वृ॒हा॒मि॒ । ते॒ ॥ऊरुभ्याम् । ते । अष्ठीवत्भ्याम् । पार्ष्णिभ्याम् । प्रपदाभ्याम् । यक्ष्मम् । श्रोणिभ्य्म् । भासदात् । भंससः । वि । वृहामि । ते ॥ūru-bhyām | te | aṣṭhīvat-bhyām | pārṣṇi-bhyām | pra-padābhyām | yakṣmam | śroṇi-bhym | bhāsadāt | bhaṃsasaḥ | vi | vṛhāmi | te