Sukta 10.163
आन्त्रेभ्यस्ते गुदाभ्यो वनिष्ठोर्हृदयादधि । यक्ष्मं मतस्नाभ्यां यक्नः प्लाशिभ्यो वि वृहामि ते ॥
आ॒न्त्रेभ्य॑स्ते॒ गुदा॑भ्यो वनि॒ष्ठोर्हृद॑या॒दधि॑ । यक्ष्मं॒ मत॑स्नाभ्यां य॒क्नः प्ला॒शिभ्यो॒ वि वृ॑हामि ते ॥
ā́ntrebhyas te gudā́bhyo vaniṣṭhór hṛ́dayād ádhi | yakṣmáṃ matasnā́bhyāṃ yaknáḥ plāśíbhyó ví vṛhāmi te ||
तेरी आँतों से, तेरे गुदा-प्रदेश से, वनिṣ्ठोः (मूत्राशय-प्रदेश) से, और हृदय के ऊपर से; यक्ष्म को—मतस्नाभ्यां (युग्म वृक्कों) से, यकृत से, और प्लाशि (अन्तः-झिल्लियों) से—मैं तुझसे उखाड़ देता हूँ।
आ॒न्त्रेभ्यः॑ । ते॒ । गुदा॑भ्यः । व॒नि॒ष्ठोः । हृद॑यात् । अधि॑ । यक्ष्म॑म् । मत॑स्नाभ्याम् । य॒क्नः । प्ला॒शिऽभ्यः॑ । वि । वृ॒हा॒मि॒ । ते॒ ॥आन्त्रेभ्यः । ते । गुदाभ्यः । वनिष्ठोः । हृदयात् । अधि । यक्ष्मम् । मतस्नाभ्याम् । यक्नः । प्लाशिभ्यः । वि । वृहामि । ते ॥āntrebhyaḥ | te | gudābhyaḥ | vaniṣṭhoḥ | hṛdayāt | adhi | yakṣmam | matasnābhyām | yaknaḥ | plāśi-bhyaḥ | vi | vṛhāmi | te