Sukta 1.58
भवा वरूथं गृणते विभावो भवा मघवन्मघवद्भ्यः शर्म । उरुष्याग्ने अंहसो गृणन्तं प्रातर्मक्षू धियावसुर्जगम्यात् ॥
भवा॒ वरू॑थं गृण॒ते वि॑भावो॒ भवा॑ मघवन्म॒घव॑द्भ्य॒: शर्म॑ । उ॒रु॒ष्याग्ने॒ अंह॑सो गृ॒णन्तं॑ प्रा॒तर्म॒क्षू धि॒याव॑सुर्जगम्यात् ॥
bhávā várūthaṃ gṛṇaté vibhāvo bhávā maghavan maghávat-bhyaḥ śárma | uruṣyā́gne áṃhaso gṛṇántaṃ prātár makṣū́ dhiyā́vasur jagamyāt ||
हे विभावो (सर्वप्रकाशमान)! गृणते (स्तुति करने वाले) के लिए वरूथ (आश्रय-कवच) बनो; हे मघवन्! दानियों और दान में बढ़ने वालों के लिए शर्म (शांति-आश्रय) बनो। हे अग्ने! गृणन्तं को अंहस से उरुष्य (विस्तार से बचा); ताकि प्रातःकाल धियावसु (प्रेरित बुद्धि का धन) शीघ्र हमारे पास आ पहुँचे।
भव॑ । वरू॑थम् । गृ॒ण॒ते । वि॒भा॒ऽवः॒ । भव॑ । म॒घ॒व॒न् । म॒घव॑त्ऽभ्यः । शर्म॑ । उ॒रु॒ष्य । अ॒ग्ने॒ । अंह॑सः । गृ॒णन्त॑म् । प्रा॒तः । म॒क्षु । धि॒याऽव॑सुः । ज॒ग॒म्या॒त् ॥भव । वरूथम् । गृणते । विभावः । भव । मघवन् । मघवत्भ्यः । शर्म । उरुष्य । अग्ने । अंहसः । गृणन्तम् । प्रातः । मक्षु । धियावसुः । जगम्यात् ॥bhava | varūtham | gṛṇate | vibhāvaḥ | bhava | maghavan | maghavat-bhyaḥ | śarma | uruṣya | agne | aṃhasaḥ | gṛṇantam | prātaḥ | makṣu | dhiyāvasuḥ | jagamyāt