Sukta 1.51
वि जानीह्यार्यान्ये च दस्यवो बर्हिष्मते रन्धया शासदव्रतान् । शाकी भव यजमानस्य चोदिता विश्वेत्ता ते सधमादेषु चाकन ॥
वि जा॑नी॒ह्यार्या॒न्ये च॒ दस्य॑वो ब॒र्हिष्म॑ते रन्धया॒ शास॑दव्र॒तान् । शाकी॑ भव॒ यज॑मानस्य चोदि॒ता विश्वेत्ता ते॑ सध॒मादे॑षु चाकन ॥
vi jānīhy āryān ye ca dasyavo barhiṣmate randhayā śāsad avratān | śākī bhava yajamānasya coditā viśvettā te sadha-mādeṣu cākana ||
आर्यों और जो दस्यु हैं—दोनों को भली-भाँति पहचान। जो बर्हिष् (यज्ञ-आसन) बिछाता है, उसके लिए धर्म से विमुख, व्रतहीन जनों को वश में कर। यजमान की प्रेरणा से समर्थ बन; और तेरी ये समस्त शक्तियाँ सधमाद (सामूहिक सोम-आनन्द) में हर्ष पावें।
वि । जा॒नी॒हि॒ । आर्या॑न् । ये । च॒ । दस्य॑वः । ब॒र्हिष्म॑ते । र॒न्ध॒य॒ । शास॑त् । अ॒व्र॒तान् । शाकी॑ । भ॒व॒ । यज॑मानस्य । चो॒दि॒ता । विश्वा॑ । इत् । ता । ते॒ । स॒ध॒ऽमादे॑षु । चा॒क॒न॒ ॥वि । जानीहि । आर्यान् । ये । च । दस्यवः । बर्हिष्मते । रन्धय । शासत् । अव्रतान् । शाकी । भव । यजमानस्य । चोदिता । विश्वा । इत् । ता । ते । सधमादेषु । चाकन ॥vi | jānīhi | āryān | ye | ca | dasyavaḥ | barhiṣmate | randhaya | śāsat | avratān | śākī | bhava | yajamānasya | coditā | viśvā | it | tā | te | sadha-mādeṣu | cākana