Sukta 1.168
प्रति ष्टोभन्ति सिन्धवः पविभ्यो यदभ्रियां वाचमुदीरयन्ति । अव स्मयन्त विद्युतः पृथिव्यां यदी घृतं मरुतः प्रुष्णुवन्ति ॥
प्रति॑ ष्टोभन्ति॒ सिन्ध॑वः प॒विभ्यो॒ यद॒भ्रियां॒ वाच॑मुदी॒रय॑न्ति । अव॑ स्मयन्त वि॒द्युत॑: पृथि॒व्यां यदी॑ घृ॒तं म॒रुत॑: प्रुष्णु॒वन्ति॑ ॥
práti ṣṭobhanti síndhavaḥ pavíbhyo yád abhríyāṃ vā́cam udī́rayanti | áva smayanta vidyútaḥ pṛthivyā́ṃ yadī́ ghṛtáṃ marútaḥ pruṣṇuvánti ||
जब तुम मेघ-जन्मा वाणी को उदित करते हो, तब नदियाँ तुम्हारे प्रेरक वेगों के प्रति प्रत्युत्तर में गर्ज उठती हैं। और जब, हे मरुतो, तुम घृत—अपने तेजोमय सार—का छिड़काव करते हो, तब पृथ्वी पर विद्युत्-रेखाएँ मानो मुस्कराकर झलकती हैं।
प्रति॑ । स्तो॒भ॒न्ति॒ । सिन्ध॑वः । प॒विऽभ्यः॑ । यत् । अ॒भ्रिया॑म् । वाच॑म् । उत्ऽई॒रय॑न्ति । अव॑ । स्म॒य॒न्त॒ । वि॒ऽद्युतः॑ । पृ॒थि॒व्याम् । यदि॑ । घृ॒तम् । म॒रुतः॑ । प्रु॒ष्णु॒वन्ति॑ ॥प्रति । स्तोभन्ति । सिन्धवः । पविभ्यः । यत् । अभ्रियाम् । वाचम् । उत्ईरयन्ति । अव । स्मयन्त । विद्युतः । पृथिव्याम् । यदि । घृतम् । मरुतः । प्रुष्णुवन्ति ॥prati | stobhanti | sindhavaḥ | pavi-bhyaḥ | yat | abhriyām | vācam | ut-īrayant i | ava | smayanta | vi-dyutaḥ | pṛthivyām | yadi | ghṛtam | marutaḥ | pruṣṇuvanti