Sukta 1.165
कया शुभा सवयसः सनीळाः समान्या मरुतः सं मिमिक्षुः । कया मती कुत एतास एतेऽर्चन्ति शुष्मं वृषणो वसूया ॥
कया॑ शु॒भा सव॑यस॒: सनी॑ळाः समा॒न्या म॒रुत॒: सं मि॑मिक्षुः । कया॑ म॒ती कुत॒ एता॑स ए॒तेऽर्च॑न्ति॒ शुष्मं॒ वृष॑णो वसू॒या ॥
káyā śubhā́ saváyasaḥ sanī́ḷāḥ samānyā́ marútaḥ sáṃ mimikṣuḥ | káyā matī́ kutá étāsa eté ’rcanti śúṣmaṃ vṛ́ṣaṇo vasūyā́ ||
किस शुभ सामंजस्य से—समवयस्क और एक ही नीड (निवास) वाले—मरुत् एक साथ मिल गए? किस मति (प्रेरित बुद्धि) से, कहाँ से ये आए हैं, कि ये वृषण (वीर्यवान) वसूया (सच्चे धन की कामना) करते हुए अपना शुष्म (बल) गाते हैं?
कया॑ । शु॒भा । सऽव॑यसः । सऽनी॑ळाः । स॒मा॒न्या । म॒रुतः॑ । सम् । मि॒मि॒क्षुः॒ । कया॑ । म॒ती । कुतः॑ । आऽइ॑तासः । ए॒ते । अर्च॑न्ति । शुष्म॑म् । वृष॑णः । व॒सु॒ऽया ॥कया । शुभा । सवयसः । सनीळाः । समान्या । मरुतः । सम् । मिमिक्षुः । कया । मती । कुतः । आइतासः । एते । अर्चन्ति । शुष्मम् । वृषणः । वसुया ॥kayā | śubhā | sa-vayasaḥ | sa-nīḷāḥ | samānyā | marutaḥ | sam | mimikṣuḥ | kayā | matī | kutaḥ | āitāsaḥ | ete | arcanti | śuṣmam | vṛṣaṇaḥ | vasu-yā