Sukta 1.163
अनु त्वा रथो अनु मर्यो अर्वन्ननु गावोऽनु भगः कनीनाम् । अनु व्रातासस्तव सख्यमीयुरनु देवा ममिरे वीर्यं ते ॥
अनु॑ त्वा॒ रथो॒ अनु॒ मर्यो॑ अर्व॒न्ननु॒ गावोऽनु॒ भग॑: क॒नीना॑म् । अनु॒ व्राता॑स॒स्तव॑ स॒ख्यमी॑यु॒रनु॑ दे॒वा म॑मिरे वी॒र्यं॑ ते ॥
ánu tvā rátho ánu máryo arvánn ánu gā́vo ánu bhágaḥ kanī́nām | ánu vrā́tāsas táva sakhyám īyur ánu devā́ mamire vī́ryaṃ te ||
तुम्हारे पीछे-पीछे रथ चलता है, तुम्हारे पीछे युवा योद्धा; तुम्हारे पीछे ‘गावः’ (किरण/रश्मियाँ) और युवाओं के लिए आनंद का भाग चलता है। तुम्हारे पीछे दल-समूह तुम्हारी सख्यता में आते हैं; तुम्हारे पीछे देव तुम्हारे वीर्य को नापते हैं—आगे बढ़ने वालों के लिए तुम्हारी शक्ति ही मानदण्ड बनती है।
अनु॑ । त्वा॒ । रथः॑ । अनु॑ । मर्यः॑ । अ॒र्व॒न् । अनु॑ । गावः॑ । अनु॑ । भगः॑ । क॒नीना॑म् । अनु॑ । व्राता॑सः । तव॑ । स॒ख्यम् । ई॒युः॒ । अनु॑ । दे॒वाः । म॒मि॒रे॒ । वी॒र्य॑म् । ते॒ ॥अनु । त्वा । रथः । अनु । मर्यः । अर्वन् । अनु । गावः । अनु । भगः । कनीनाम् । अनु । व्रातासः । तव । सख्यम् । ईयुः । अनु । देवाः । ममिरे । वीर्यम् । ते ॥anu | tvā | rathaḥ | anu | maryaḥ | arvan | anu | gāvaḥ | anu | bhagaḥ | kanīnām | anu | vrātāsaḥ | tava | sakhyam | īyuḥ | anu | devāḥ | mamire | vīryam | te