Skanda
यथा शिवमयो विष्णुरेवं विष्णुमयः शिवः । यथान्तरं न पश्यामि तथा मे स्वस्तिरायुषि ॥९॥
यथा । शिव-मयः । विष्णुः । एवम् । विष्णु-मयः । शिवः । यथा । अन्तरम् । न । पश्यामि । तथा । मे । स्वस्तिः । आयुषि ।
yathā śivamayo viṣṇur evaṁ viṣṇumayaḥ śivaḥ | yathāntaraṁ na paśyāmi tathā me svastir āyuṣi ||9||
જેમ વિષ્ણુ શિવમય છે, તેમ શિવ પણ વિષ્ણુમય છે. હું એમની વચ્ચે કોઈ ભેદ નથી જોતો; તેથી મારા આયુષ્યમાં કલ્યાણ રહે॥૯॥
Just as Viṣṇu is pervaded by Śiva, so Śiva is pervaded by Viṣṇu. Since I do not see any difference (between them), so may there be well-being for me in (my) lifespan.