Ganapati
गकारः पूर्वरूपम् । अकारो मध्यमरूपम् । अनुस्वारश्चान्त्यरूपम् । बिन्दुरुत्तररूपम् । नादः सन्धानम् । संहिता सन्धिः । सैषा गणेशविद्या ॥८॥
ग-कारः । पूर्व-रूपम् । अ-कारः । मध्यम-रूपम् । अनुस्वारः च । अन्त्य-रूपम् । बिन्दुः । उत्तर-रूपम् । नादः । सन्धानम् । संहिता । सन्धिः । सा । एषा । गणेश-विद्या ॥
gakāraḥ pūrvarūpam | akāro madhyamarūpam | anusvāraś cāntyarūpam | bindur uttararūpam | nādaḥ sandhānam | saṃhitā sandhiḥ | saiṣā gaṇeśavidyā ||8||
‘ગ’કાર પૂર્વરૂપ છે; ‘અ’કાર મધ્યરૂપ છે; અનુસ્વાર અંત્યરૂપ છે; બિંદુ ઉત્તરરૂપ છે; નાદ સંધાન છે; સંહિતા સંધિ છે. આ જ ગણેશવિદ્યા છે॥૮॥
The letter ‘ga’ is the prior form; the letter ‘a’ is the middle form; the anusvāra is the final form; the bindu is the subsequent (higher) form; nāda is the junction; saṃhitā is the sandhi. This indeed is the knowledge (vidyā) of Gaṇeśa.