Avadhuta
विक्षेपो नास्ति यस्मान्मे न समाधिस्ततो मम । विक्षेपो वा समाधिर्वा मनसः स्याद्विकारिणः । नित्यानुभवरूपस्य को मेऽत्रानुभवः पृथक् ॥२३॥
विक्षेपः । न । अस्ति । यस्मात् । मे । न । समाधिः । ततः । मम । विक्षेपः । वा । समाधिः । वा । मनसः । स्यात् । विकारिणः । नित्य-अनुभव-रूपस्य । कः । मे । अत्र । अनुभवः । पृथक् ॥२३॥
vikṣepo nāsti yasmān me na samādhis tato mama | vikṣepo vā samādhir vā manasaḥ syād vikāriṇaḥ | nityānubhavarūpasya ko me 'trānubhavaḥ pṛthak ||23||
મારે માટે વિક્ષેપ નથી; તેથી મારે માટે સમાધિ પણ નથી. વિક્ષેપ કે સમાધિ તો વિકારી મનને જ લાગુ પડે. જેનું સ્વરૂપ નિત્ય અનુભવ છે, એવા મને અહીં અલગ ‘અનુભવ’ કયો હોઈ શકે?
Since there is no distraction for me, therefore there is no samādhi for me. Distraction or samādhi would belong to the mind, which is subject to modification. For me, whose nature is eternal experience, what separate ‘experience’ could there be here?