Akshi
भूमिकात्रितयं जाग्रच्चतुर्थी स्वप्न उच्यते॥ चित्तं तु शरदभ्रांशविलयं प्रविलीयते। सत्त्वावशेष एवास्ते पञ्चमीं भूमिकां गतः॥ जगद्विकल्पो नोदेति चित्तस्यात्र विलापनात्। पञ्चमीं भूमिकामेत्य सुषुप्तपदनामिकाम्। शान्ताशेषविशेषांशस्तिष्ठत्यद्वैतमात्रकः॥ गलितद्वैतनिर्भासो मुदितोऽतःप्रबोधवान्। सुषुप्तमन एवास्ते पञ्चमीं भूमिकां गतः॥ अन्तर्मुखतया तिष्ठन् बहिर्वृत्तिपरोऽपि सन्। परिश्रान्ततया नित्यं निद्रालुरिव लक्ष्यते॥ कुर्वन्नभ्यासमेतस्यां भूमिकायां विवासनः। षष्ठीं तुर्याभिधामन्यां क्रमात्पतति भूमिकाम्॥ यत्र नासन्नसद्रूपो नाहं नाप्यहंकृतिः। केवलं क्षीणमननमास्तेऽद्वैतेऽतिनिर्भयः॥ निर्ग्रन्थिः शान्तसन्देहो जीवन्मुक्तो विभावनः। अनिर्वाणोऽपि निर्वाणश्चित्रदीप इव स्थितः॥ षष्ठ्यां भूमावसौ स्थित्वा सप्तमीं भूमिमाप्नुयात्॥
भूमिका-त्रितयम् । जाग्रत् । चतुर्थी । स्वप्नः । उच्यते ॥ चित्तम् । तु । शरद्-अभ्र-अंश-विलयम् । प्रविलीयते । सत्त्व-अवशेषः । एव । आस्ते । पञ्चमीम् । भूमिकाम् । गतः ॥ जगत्-विकल्पः । न । उदेति । चित्तस्य । अत्र । विलापनात् । पञ्चमीम् । भूमिकाम् । एत्य । सुषुप्त-पद-नामिकाम् । शान्त-अशेष-विशेष-अंशः । तिष्ठति । अद्वैत-मात्रकः ॥ गलित-द्वैत-निर्भासः । मुदितः । अतः । प्रबोधवान् । सुषुप्त-मनः । एव । आस्ते । पञ्चमीम् । भूमिकाम् । गतः ॥ अन्तर्मुखतया । तिष्ठन् । बहिः-वृत्ति-परः । अपि । सन् । परिश्रान्ततया । नित्यम् । निद्रालुः-इव । लक्ष्यते ॥ कुर्वन् । अभ्यासम् । एतस्याम् । भूमिकायाम् । विवासनः । षष्ठीम् । तुर्य-अभिधाम् । अन्याम् । क्रमात् । पतति । भूमिकाम् ॥ यत्र । न । असत्-न-असत्-रूपः । न । अहम् । न । अपि । अहं-कृतिः । केवलम् । क्षीण-मननम् । आस्ते । अद्वैते । अति-निर्भयः ॥ निर्ग्रन्थिः । शान्त-सन्देहः । जीवन्-मुक्तः । विभावनः । अनिर्वाणः । अपि । निर्वाणः । चित्र-दीपः । इव । स्थितः ॥ षष्ठ्याम् । भूमौ । असौ । स्थित्वा । सप्तमीम् । भूमिम् । आप्नुयात् ॥
bhūmikātritayaṃ jāgrac caturthī svapna ucyate॥ cittaṃ tu śaradabhrāṃśavilayaṃ pravilīyate | sattvāvaśeṣa evāste pañcamīṃ bhūmikāṃ gataḥ॥ jagadvikalpo nodeti cittasyātra vilāpanāt | pañcamīṃ bhūmikāmetya suṣuptapadanāmikām | śāntāśeṣaviśeṣāṃśas tiṣṭhatyadvaitamātrakaḥ॥ galitadvaitanirbhāso mudito'taḥprabodhavān | suṣuptamano evāste pañcamīṃ bhūmikāṃ gataḥ॥ antarmukhatayā tiṣṭhan bahirvṛttiparo'pi san | pariśrāntatayā nityaṃ nidrāluriva lakṣyate॥ kurvannabhyāsametasyāṃ bhūmikāyāṃ vivāsanaḥ | ṣaṣṭhīṃ turyābhidhāmanyāṃ kramāt patati bhūmikām॥ yatra nāsannasad rūpo nāhaṃ nāpyahaṃkṛtiḥ | kevalaṃ kṣīṇamananamāste'dvaite'tinirbhayaḥ॥ nirgranthiḥ śāntasandeho jīvanmukto vibhāvanaḥ | anirvāṇo'pi nirvāṇaś citradīpa iva sthitaḥ॥ ṣaṣṭhyāṃ bhūmāvasau sthitvā saptamīṃ bhūmimāpnuyāt॥
જ્યાં ન અસત છે ન સત, ન 'હું' છે ન અહંકાર. માત્ર ક્ષીણ મનન બાકી રહે છે અને તે નિર્ભય બનીને અદ્વૈતમાં સ્થિત રહે છે. ગ્રંથિઓથી મુક્ત, સંશય રહિત તે જીવનમુક્ત ચિત્ર-દીવાની જેમ અચલ રહે છે.
The triad of stages is waking; the fourth is called dream. The mind dissolves, as the fragments of autumn-clouds dissolve; only a residue of sattva remains for one who has reached the fifth stage. The imagination of the world does not arise, because here the mind has been dissolved. Having reached the fifth stage, named the state of deep sleep, with all remaining particularities pacified, he abides as non-duality alone. With the appearance of duality melted away, joyful and therefore awakened, he remains with a ‘deep-sleep’ mind, having reached the fifth stage. Abiding inwardly, though still engaged in outward activity, he is always seen as if drowsy from weariness. Practising in this stage, free from latent impressions, he gradually falls into another stage, the sixth, called ‘the fourth’ (turya). There, he is neither of the form of non-being nor being; there is no ‘I’ nor even ego-making; only attenuated thought remains—he abides in non-duality, utterly fearless. Knotless, with doubt pacified, a living-liberated one, he stands—though not (yet) disembodied—like a painted lamp: motionless, as if in nirvāṇa. Established in the sixth stage, he may attain the seventh stage.