देव॑ सवितरे॒ष ते॒ सोम॒स्तᳪ र॑क्षस्व॒ मा त्वा॑ दभन् । ए॒तत्त्वं दे॑व सोम दे॒वो दे॒वाँ२ उपा॑गा इ॒दम॒हं म॑नु॒ष्या॒न्त्स॒ह रा॒यस्पोषे॑ण स्वाहा॒ । निर्वरु॑णस्य॒ पाशा॑न्मुच्ये ।
déva savitare ’ṣá te sómas táṃ rakṣasva mā́ tvā dabhān | etát tvaṃ deva soma devó devā́n upāgā idám aháṃ manuṣyā́n saha rā́yaspoṣéṇa svā́hā | nír varuṇásya pā́śān mucye ||
હે દેવ સવિતૃ, આ સોમ તારો છે; તું તેને રક્ષ; કોઈ તને હાનિ ન કરે. હે દેવ સોમ, આ જ તું છે; દેવ બની તું દેવોને ઉપાગમન કર્યો છે. હું મનુષ્યોને ધન-પોષની વૃદ્ધિ સાથે (ઉપાગમન કરું)—સ્વાહા। વરુણના પાશોમાંથી હું મુક્ત થાઉં।
देव । सवितः । एषः । ते । सोमः । तम् । रक्षस्व । मा । त्वा । दभन् । एतत् । त्वम् । देव । सोम । देवः । देवान् । उप-आगाः । इदम् । अहम् । मनुष्यान् । सह । रायः-पोषेण । स्वाहा । निः । वरुणस्य । पाशान् । मुच्ये ।