अ॒यं नो॑ अ॒ग्निर्वरि॑वस्कृणोत्व॒यं मृध॑ः पु॒र ए॑तु प्रभि॒न्दन् । अ॒यं वाजा॑ञ्जयतु॒ वाज॑साताव॒यᳪ शत्रू॑ञ्जयतु॒ जर्हृ॑षाण॒ः स्वाहा॑ ।
ayáṃ no agnír várivaskṛṇotv ayáṃ mṛ́dhaḥ púra etu prabhíndan | ayáṃ vājā́n jayatu vā́jasātāv ayáṃ śatrū́n jayatu járhṛṣāṇaḥ svā́hā ||
આ અમારો અગ્નિ અમારે માટે વિશાળ અવકાશ (વરિવસ) કરે; આ આઘાતોને ચીરી આગળ ચાલે. વાજસાતિમાં વાજો (ઇનામો) જીતે; હર્ષિત થઈ શત્રુઓને જીતે—સ્વાહા।
अ॒यम् । नः । अ॒ग्निः । वरिवः-कृणोतु । अ॒यम् । मृधः । पु॒रः । ए॒तु । प्र॒-भि॒न्दन् । अ॒यम् । वाजान् । जयतु । वाज-सातौ । अ॒यम् । शत्रून् । जयतु । जर्हृषाणः । स्वाहा ।