ध्रु॒वो॒ऽसि पृथि॒वीं दृ॑ᳪह । ध्रुव॒क्षिद॑स्य॒न्तरि॑क्षं दृᳪह । अच्युत॒क्षिद॑सि॒ दिवं॑ दृᳪह । अ॒ग्नेः पुरी॑षम् असि ॥
dhrúvo 'si pṛthivī́ṃ dṛṃha | dhruvákṣid asy antárikṣaṃ dṛṃha | acyutákṣid asi dívaṃ dṛṃha | agnéḥ purī́ṣam asi ||
તું ધ્રુવ છે; પૃથ્વીને દૃઢ કર. તારો ધ્રુવ આસન છે; અંતરિક્ષને દૃઢ કર. તારો અચલ આસન છે; દ્યૌને દૃઢ કર. તું અગ્નિનું ‘પુરીષ’ છે (ભરાવ/પેકિંગ-દ્રવ્ય).
ध्रुवः । असि । पृथिवीम् । दृंह । ध्रुव-क्षिद् । असि । अन्तरिक्षम् । दृंह । अच्युत-क्षिद् । असि । दिवम् । दृंह । अग्नेः । पुरीषम् । असि ।