स पर्य॑गाच्छु॒क्रम॑का॒यम॑व्र॒णम॑स्नावि॒रᳪ शु॒द्धमपा॑पविद्धम् । क॒विर्म॑नी॒षी प॑रि॒भूः स्व॑य॒म्भूर्या॑थातथ्य॒तोऽर्था॒न् व्य॒दधाच्छाश्व॒तीभ्य॒: समा॑भ्यः
sá pár(y)agāc chukrám akā́yam avráṇam asnāvíraṃ śuddhám apā́paviddham | kavír manīṣī paribhū́ḥ svayambhū́r yāthātathyató 'rthā́n vyádadhāc chāśvatī́bhyaḥ sámābhyaḥ ||
તે સર્વત્ર વ્યાપી ગયો છે—પ્રકાશમય, અકાય (દેહરહિત), અવ્રણ (ઘાવરહિત), અસ્નાવિર (સ્નાયુરહિત), શુદ્ધ, અપાપવিদ্ধ (પાપથી અવિદ્ધ). કવિ, મનીષી, પરિભૂ, સ્વયંભૂ—તે યથાતથ્ય પ્રમાણે શાશ્વત વર્ષો માટે અર્થોને યથાવિધિ ગોઠવી દીધા છે.
सः । पर्यगात् । शुक्रम् । अकायम् । अव्रणम् । अस्नाविरम् । शुद्धम् । अपापविद्धम् । कविः । मनीषी । परिभूः । स्वयम्भूः । याथातथ्यतः । अर्थान् । व्यदधात् । शाश्वतीभ्यः । समाभ्यः ।