प्र नू॒नं ब्रह्म॑ण॒स्पति॒र्मन्त्रं॑ वदत्यु॒क्थ्य॒म् । यस्मि॒न्निन्द्रो॒ वरु॑णो मि॒त्रो अ॑र्य॒मा दे॒वा ओका॑ᳪसि चक्रि॒रे
prá nū́naṃ brahmaṇaspátir mántraṃ vadaty ukthyàm | yásminn índro váruṇo mitró aryamā́ devā́ okā́ṃsi cakriré
હવે નિશ્ચયે બ્રહ્મણસ્પતિ ઉક્થ્ય મંત્ર ઉચ્ચારે છે—જેમા ઇન્દ્ર, વરુણ, મિત્ર અને અર્યમા—આ દેવોએ—પોતાના નિવાસસ્થાનો રચ્યા છે.
प्र । नूनम् । ब्रह्मणस्-पतिः । मन्त्रम् । वदति । उक्थ्यम् । यस्मिन् । इन्द्रः । वरुणः । मित्रः । अर्यमा । देवाः । ओकांसि । चक्रिरे