होता॑ यक्ष॒त्तनू॒नपा॑तमू॒तिभि॒र्जेता॑र॒मप॑राजितम् । इन्द्रं॑ दे॒वᳪ स्व॒र्विदं॑ प॒थिभि॒र्मधु॑मत्तमै॒र्नरा॒शᳪसे॑न॒ तेज॑सा॒ वेत्वाज्य॑स्य॒ होत॒र्यज॑
hótā yakṣat tanūnapātam ūtíbhir jétāram áparājitam | índraṁ deváṁ svàr-vidaṁ pathíbhir mádhumattamair narāśáṁsena téjasā vétv ā́jyasya hótar yája
હોતૃ તનૂનપાતનું યજન કરે—તેની સહાયોથી, વિજેતા, અપરાજિત. સ્વર્વિદ દેવ ઇન્દ્રને—અતિ મધુર માર્ગોથી, નરાશંસ સાથે, તેજ સાથે—ઘૃતાહુતિ તરફ આવવા દે. હોતૃ, યજ!
होता यक्षत् । तनूनपातम् । ऊतिभिः । जेतारम् । अपराजितम् । इन्द्रम् । देवम् । स्वः-विदम् । पथिभिः । मधुमत्तमैः । नराशंसॆन । तेजसा । वेतु । आज्यस्य । होतः । यज