इ॒है॒वाग्ने॒ अधि॑ धारया र॒यिं मा त्वा॒ नि क्र॑न्पूर्व॒चितो॑ निका॒रिण॑: । क्ष॒त्रम॑ग्ने सु॒यम॑मस्तु॒ तुभ्य॑मुपस॒त्ता व॑र्धतां ते॒ अनि॑ष्टृतः
iháivā́gne ádhi dhāraya rayím mā́ tvā ní kran pūrvácito nikā́riṇaḥ | kṣatrám agne suyámam astu túbhyam upasattā́ vardhatāṃ te ániṣṭṛtaḥ ||
અહીં જ, હે અગ્નિ, તું ધન-રયિ સ્થાપિત કર; પ્રાચીન બુદ્ધિથી રચાયેલા નિકારિણ (પલટાવ કરનાર/ઉખેડનાર) તને દબાવી ન નાખે. હે અગ્નિ, સુયમ (સુશાસિત) ક્ષત્ર તને પ્રાપ્ત થાઓ; અને તારો ઉપસત્તા વધતો રહે, અનિષ્ટૃતઃ (અહત/અક્ષત) રહીને.
इह । एव । अग्ने । अधि । धारय । रयिम् । मा । त्वा । नि । क्रन् । पूर्व-चितः । नि-कारिणः । क्षत्रम् । अग्ने । सु-यमम् । अस्तु । तुभ्यम् । उपसत्ता । वर्धताम् । ते । अनिष्टृतः ।