तं वो॑ द॒स्ममृ॑ती॒षहं॒ वसो॑र्मन्दा॒नमन्ध॑सः । अ॒भि व॒त्सं न स्वस॑रेषु धे॒नव॒ इन्द्रं॑ गी॒र्भिर्न॑वामहे
táṃ vo dasmáṃ ṛtīṣáhaṃ vásor mandānáṃ ándhasaḥ | abhí vatsáṃ ná svásareṣu dhenáva índraṃ gīrbhír navāmahe
તમને અમે તે અદ્ભુત, આઘાત-સહનશીલ ઇન્દ્રને—સોમરસથી આનંદિત, ધનના સ્વામી—સ્તુતિગીતોથી નવાંવીએ; જેમ દૂધાળ ગાયો (પ્રવાહો) પોતાની ધારાઓમાં વાછરડાં તરફ દોડે તેમ.
तम् । वः । दस्मम् । ऋतीषहम् । वसोः । मन्दानम् । अन्धसः । अभि । वत्सम् । न । स्वसरेषु । धेनवः । इन्द्रम् । गीर्भिः । नवामहे ।