दुरो॑ दे॒वीर्दिशो॑ म॒हीर्ब्र॒ह्मा दे॒वो बृह॒स्पति॑: । प॒ङ्क्तिश्छन्द॑ इ॒हेन्द्रि॒यं तु॑र्य॒वाड्गौ॒र्वयो॑ दधुः
dúro devī́r díśo mahī́r brahmā́ devó bṛ́haspátiḥ | paṅktíś chánda ihéndriyáṃ túrya-vā́ḍ gā́ur váyo dadhúḥ
દ્વારો દેવીઓ છે—મહાન દિશાઓ; બ્રહ્મા-પુરોહિત દેવ બૃહસ્પતિ છે. પઙ્ક્તિ છંદ—અહીં ઇન્દ્રનું ઐન્દ્રિય બળ: ચતુર્વિધ ગૌ, પ્રાણશક્તિરૂપે, તેમણે સ્થાપ્યું.
दुरः॑ । दे॒वीः । दिशः॑ । म॒हीः । ब्र॒ह्मा । दे॒वः । बृह॒स्पतिः॑ । प॒ङ्क्तिः । छन्दः॑ । इ॒ह । इ॒न्द्रि॒यम् । तु॑र्य॒-॒वाट् । गौः । वयः॑ । दधुः