तस्य॑ व॒यᳪ सु॑म॒तौ य॒ज्ञिय॒स्यापि॑ भ॒द्रे सौ॑मन॒से स्या॑म । स सु॒त्रामा॒ स्ववाँ॒२ इन्द्रो॑ अ॒स्मे आ॒राच्चि॒द् द्वेष॑: सनु॒तर्यु॑योतु
tásya vayáṃ sumatáu yajñíyasyā́pi bhadré saumanasé syāma | sá sutrā́mā svávāṃ̐ índro asmē ārā́c cid dvéṣaḥ sanutáry uyotu ||
તે યજ્ઞિય (પૂજનીય)ના સુમતામાં—હા, શુભ સૌમનસ (સુવિચાર/સુપ્રસન્નતા)માં—અમે નિવાસ કરીએ. તે સુત્રામા, સ્વવાં ઇન્દ્ર અમારાથી દ્વેષને દૂર—દૂરથી પણ—સંપૂર્ણ રીતે હટાવી દે.
तस्य । वयम् । सुमतौ । यज्ञियस्य । अपि । भद्रे । सौमनसे । स्याम । सः । सुत्रामा । स्ववान् । इन्द्रः । अस्मे । आरात् । चित् । द्वेषः । सनुतरि । युयोतु ।