आ॒योष्ट्वा॒ सद॑ने सादया॒म्यव॑तश्छा॒याया॑ᳪ समु॒द्रस्य॒ हृद॑ये । र॒श्मी॒वतीं॒ भास्व॑ती॒मा या द्यां भास्यापृ॑थि॒वीमोर्व॒न्तरि॑क्षम्
āyóṣ tvā sádane sādayāmy ávataś-chāyā́yāṃ samudrásya hṛ́daye | raśmīvatīṃ bhā́svatīm ā́ yā́ dyā́ṃ bhāsi ā́ pṛthivī́m urv àntárikṣam
આયુના સદનમાં હું તને બેસાડું છું—નીચે પડતી છાયામાં, સમુદ્રના હૃદયમાં; કિરણવતી, તેજસ્વિની—જે દ્યૌને પ્રકાશિત કરે છે, વિસ્તૃત પૃથ્વીને (અને) ઉર્વ અંતરિક્ષને।
आ॒योः । त्वा॒ । सद॑ने । सादया॒मि । अव॑तः । छा॒याया॑म् । स॒मु॒द्रस्य॒ । हृद॑ये । र॒श्मी॒वतीम् । भास्व॑तीम् । आ । या । द्याम् । भासि । आ॒पृ॒थि॒वीम् । उ॒र्व् । अ॒न्तरि॑क्षम् ।