जन॑स्य गो॒पा अ॑जनिष्ट॒ जागृ॑विर॒ग्निः सु॒दक्ष॑: सुवि॒ताय॒ नव्य॑से । घृ॒तप्र॑तीको बृह॒ता दि॑वि॒स्पृशा॑ द्यु॒मद्वि भा॑ति भर॒तेभ्य॒: शुचि॑:
jánasya gopā́ ajaniṣṭa jā́gṛvir agníḥ sudákṣaḥ suvitā́ya návyase | ghṛtápratīko bṛhatā́ divispṛ́śā dyumád ví bhāti bharatébhyaḥ śúciḥ
જનનો ગોપા જન્મ્યો—જાગૃત અગ્નિ, સુદક્ષ, સદૈવ નવી કલ્યાણતા માટે. ઘૃત-પ્રતીક, મહાન, દ્યૌને સ્પર્શનાર; દ્યુમંત તેજથી તે પ્રકાશે છે—શુચિ—ભારતો માટે.
जन॑स्य । गो॒पाः । अ॒ज॒नि॒ष्ट॒ । जागृ॑विः । अ॒ग्निः । सु॒दक्षः॑ । सु॒वि॒ताय॑ । नव्य॑से । घृ॒त-प्र॑तीकः । बृ॒ह॒ता । दि॒वि॒-स्पृशा॑ । द्यु॒मत् । वि । भा॑ति । भ॒र॒तेभ्यः॑ । शुचिः॑