इ॒षश्चो॒र्जश्च॑ शार॒दावृ॒तू अ॒ग्नेर॑न्तः श्ले॒षो॒ऽसि॒ कल्पे॑तां॒ द्यावा॑पृथि॒वी कल्प॑न्ता॒माप॒ ओष॑धय॒: कल्प॑न्ताम॒ग्नय॒: पृथ॒ङ्नम॒ ज्यैष्ठ्याय॒ सव्र॑ताः । ये अ॒ग्नय॒: सम॑नसोऽन्त॒रा द्यावा॑पृथि॒वी इ॒मे शा॒र॒दावृ॒तू अ॑भि॒कल्प॑माना॒ इन्द्र॑मिव दे॒वा अ॑भि॒संवि॑शन्तु॒ तया॑ दे॒वत॑याऽङ्गिर॒स्वद् ध्रु॒वे सी॑दतम्
iṣáś corjáś ca śāradā́v ṛtū́ agnér antaḥ śléṣo ’si | kálpetāṃ dyāvā-pṛthivī́ kálpantām ā́pa óṣadhayaḥ kálpantām agnáyaḥ pṛtháṅ náma jyáiṣṭhyāya sá-vratāḥ | yé agnáyaḥ sá-manaso ’ntárā dyāvā-pṛthivī́ imé śāradā́v ṛtū́ abhí-kálpamānā índram iva devā́ abhí-saṃvíśantu táyā devátayā ’ṅgirasvád dhruvé sīdatam
ઇષ અને ઊર્જ, તથા બે શારદ ઋતુઓ—તું અગ્નિનો આંતરિક બંધ છે. દ્યાવા-પૃથિવી સુવ્યવસ્થિત થાય; આપઃ સુવ્યવસ્થિત થાય; ઓષધિઓ સુવ્યવસ્થિત થાય; અગ્નયો સુવ્યવસ્થિત થાય—પૃથક્ નમઃ, જ્યૈષ્ઠ્ય માટે, એકવ્રતવાળા. જે અગ્નયો એકમનથી આ દ્યાવા-પૃથિવી વચ્ચે છે, તે શારદ ઋતુઓને અનુરૂપ ગોઠવાતા દેવો ઇન્દ્રને જેમ અભિસંવિશે તેમ પ્રવેશ કરે. તે દેવતાની સાથે, અંગિરસોની રીત પ્રમાણે, હે ધ્રુવે, બેસો.
इषः । च । ऊर्जः । च । शारदे । ऋतू । अ॒ग्नेः । अ॒न्तः । श्ले॒षः । अ॒सि । कल्पेताम् । द्यावा॑पृथिवी । कल्पन्ताम् । आपः । ओषधयः । कल्पन्ताम् । अग्नयः । पृथक् । नमः । ज्यैष्ठ्याय । सव्रताः । ये । अग्नयः । समनसः । अन्तरा । द्यावा॑पृथिवी । इमे । शारदे । ऋतू । अ॒भि॒कल्प॑मानाः । इन्द्रम् । इव । देवाः । अ॒भि॒संवि॑शन्तु । तया । देवतया । अङ्गिरस्वत् । ध्रुवे । सीदतम्