त्वमु॑त्त॒मास्यो॑षधे॒ तव॑ वृ॒क्षा उप॑स्तयः । उप॑स्तिरस्तु॒ सोऽस्माकं॒ यो अ॒स्माँ२ अ॑भि॒दास॑ति
tvám uttamā́sy oṣadhe táva vṛkṣā́ upástayaḥ | upástir astu só ’smākaṃ yó ’smā́n abhídāsati
હે ઔષધિ, તું સર્વોત્તમ છે; વૃક્ષો તારા આધારરૂપ છે. જે અમને આક્રમણ કરે છે, તેના સામે એ આધાર અમારું રક્ષણ બને.
त्वम् । उत्तमासि । ओषधे । तव । वृक्षाः । उपस्तयः । उपस्तिः । अस्तु । सः । अस्माकम् । यः । अस्मान् । अभिदासति ।