Sukta 6.50
ते नो रुद्रः सरस्वती सजोषा मीळ्हुष्मन्तो विष्णुर्मृळन्तु वायुः । ऋभुक्षा वाजो दैव्यो विधाता पर्जन्यावाता पिप्यतामिषं नः ॥
ते नो॑ रु॒द्रः सर॑स्वती स॒जोषा॑ मी॒ळ्हुष्म॑न्तो॒ विष्णु॑र्मृळन्तु वा॒युः । ऋ॒भु॒क्षा वाजो॒ दैव्यो॑ विधा॒ता प॒र्जन्या॒वाता॑ पिप्यता॒मिषं॑ नः ॥
té no rudráḥ sárasvatī sajóṣā mīḷhúṣmanto víṣṇur mṛḷantu vāyúḥ | ṛbhukṣā́ vājó daivyó vidhātā́ párjanyāvātā pipyatām íṣaṃ naḥ ||
અમારા માટે રુદ્ર અને સરસ્વતી એકસાથે (સજોષા) કૃપાળુ રહે; પોષક શક્તિથી ભરપૂર વિષ્ણુ અને વાયુ પણ અમને શાંત કરે અને સુગતિમાં સ્થાપે. ઋભુક્ષા, વાજ, અને દિવ્ય વિધાતા (વ્યવસ્થાપક), તેમજ પર્જન્ય સાથેના વાતાઓ—અમારા માટે પોષણની આંતરિક પ્રેરણા (ઇષ) વધારતા રહે.
ते । नः॒ । रु॒द्रः । सर॑स्वती । स॒ऽजोषाः॑ । मी॒ळ्हुष्म॑न्तः । विष्णुः॑ । मृ॒ळ॒न्तु॒ । वा॒युः । ऋ॒भु॒क्षाः । वाजः॑ । दैव्यः॑ । वि॒ऽधा॒ता । प॒र्जन्या॒वाता॑ । पि॒प्य॒ता॒म् । इष॑म् । नः॒ ॥ते । नः । रुद्रः । सरस्वती । सजोषाः । मीळ्हुष्मन्तः । विष्णुः । मृळन्तु । वायुः । ऋभुक्षाः । वाजः । दैव्यः । विधाता । पर्जन्यावाता । पिप्यताम् । इषम् । नः ॥te | naḥ | rudraḥ | sarasvatī | sa-joṣāḥ | mīḷhuṣmantaḥ | viṣṇuḥ | mṛḷantu | vāyuḥ | ṛbhukṣāḥ | vājaḥ | daivyaḥ | vi-dhātā | parjanyāvātā | pipyatām | iṣam | naḥ