Sukta 1.188
समिद्धो अद्य राजसि देवो देवैः सहस्रजित् । दूतो हव्या कविर्वह ॥
समि॑द्धो अ॒द्य रा॑जसि दे॒वो दे॒वैः स॑हस्रजित् । दू॒तो ह॒व्या क॒विर्व॑ह ॥
samíddho adyá rājasi devó deváiḥ sahasrajit | dūtó havyā́ kavírvaha ||
આજે પ્રજ્વલિત થઈ, તું તેજસ્વી વિસ્તારમાં રાજ કરે છે—દેવો સાથે દેવ, સહસ્રવિજયી. દૂત અને કવિ બની, હવ્યો વહન કર; અમારી આહુતિઓને અંતરস্থিত શક્તિઓ સુધી પહોંચાડ.
सम्ऽइ॑द्धः । अ॒द्य । रा॒ज॒सि॒ । दे॒वः । दे॒वैः । स॒ह॒स्र॒ऽजि॒त् । दू॒तः । ह॒व्या । क॒विः । व॒ह॒ ॥सम्इद्धः । अद्य । राजसि । देवः । देवैः । सहस्रजित् । दूतः । हव्या । कविः । वह ॥sam-iddhaḥ | adya | rājasi | devaḥ | devaiḥ | sahasra-jit | dūtaḥ | havyā | kaviḥ | vaha