Sukta 1.125
नाकस्य पृष्ठे अधि तिष्ठति श्रितो यः पृणाति स ह देवेषु गच्छति । तस्मा आपो घृतमर्षन्ति सिन्धवस्तस्मा इयं दक्षिणा पिन्वते सदा ॥
नाक॑स्य पृ॒ष्ठे अधि॑ तिष्ठति श्रि॒तो यः पृ॒णाति॒ स ह॑ दे॒वेषु॑ गच्छति । तस्मा॒ आपो॑ घृ॒तम॑र्षन्ति॒ सिन्ध॑व॒स्तस्मा॑ इ॒यं दक्षि॑णा पिन्वते॒ सदा॑ ॥
nā́kasya pṛṣṭhé ádhi tiṣṭhati śritó yáḥ pṛṇā́ti sá ha devéṣu gacchati | tásmā ā́po ghṛtám arṣanti síndhavas tásmā iyáṃ dakṣiṇā́ pinvate sádā ||
જે ભરપૂર કરે છે અને પૂર્ણતા આપે છે, તે સ્વર્ગના શિખર પર આધારિત થઈ સ્થિત રહે છે; નિશ્ચયે તે દેવોમાં જાય છે. તેને જ આપઃ ઘૃતસમાન તેજ વહાવે છે, સિંધવો તેને પ્રવાહિત કરે છે; તેને જ આ દક્ષિણા સદા વૃદ્ધિથી પુષ્કળ બને છે.
नाक॑स्य । पृ॒ष्ठे । अधि॑ । ति॒ष्ठ॒ति॒ । श्रि॒तः । यः । पृ॒णाति॑ । सः । ह॒ । दे॒वेषु॑ । ग॒च्छ॒ति॒ । तस्मै॑ । आपः॑ । घृ॒तम् । अ॒र्ष॒न्ति॒ । सिन्ध॑वः । तस्मै॑ । इ॒यम् । दक्षि॑णा । पि॒न्व॒ते॒ । सदा॑ ॥नाकस्य । पृष्ठे । अधि । तिष्ठति । श्रितः । यः । पृणाति । सः । ह । देवेषु । गच्छति । तस्मै । आपः । घृतम् । अर्षन्ति । सिन्धवः । तस्मै । इयम् । दक्षिणा । पिन्वते । सदा ॥nākasya | pṛṣṭhe | adhi | tiṣṭhati | śritaḥ | yaḥ | pṛṇāti | saḥ | ha | deveṣu | gacchati | tasmai | āpaḥ | ghṛtam | arṣanti | sindhavaḥ | tasmai | iyam | dakṣiṇā | pinvate | sadā