Sukta 1.100
स ग्रामेभिः सनिता स रथेभिर्विदे विश्वाभिः कृष्टिभिर्न्वद्य । स पौंस्येभिरभिभूरशस्तीर्मरुत्वान्नो भवत्विन्द्र ऊती ॥
स ग्रामे॑भि॒: सनि॑ता॒ स रथे॑भिर्वि॒दे विश्वा॑भिः कृ॒ष्टिभि॒र्न्व१॒॑द्य । स पौंस्ये॑भिरभि॒भूरश॑स्तीर्म॒रुत्वा॑न्नो भव॒त्विन्द्र॑ ऊ॒ती ॥
sá grā́mebhiḥ sanítā sá ráthebhir vidé víśvābhiḥ kṛ́ṣṭibhir nv àdyá | sá paúṃsyebhir abhíbhūr áśastīr marútvān no bhavátv índra ūtī́ ||
તે વિજેતા (સનિતા) આજે ગામો દ્વારા, રથો દ્વારા, અને સર્વ માનવ સમુદાયો (કૃષ્ટિ) દ્વારા જાણીતા થાઓ. તે પુરુષત્વના બળોથી શત્રુતાભર્યા નિષેધોને પરાજિત કરે—મરુતો સાથેનો ઇન્દ્ર અમારી સહાય અને રક્ષા (ઊતિ) બને.
सः । ग्रामे॑भिः । सनि॑ता । सः । रथे॑भिः । वि॒दे । विश्वा॑भिः । कृ॒ष्टिऽभिः॑ । नु । अ॒द्य । सः । पौंस्ये॑भिः । अ॒भि॒ऽभूः । अश॑स्तीः । म॒रुत्वा॑न् । नः॒ । भ॒व॒तु॒ । इन्द्रः॑ । ऊ॒ती ॥सः । ग्रामेभिः । सनिता । सः । रथेभिः । विदे । विश्वाभिः । कृष्टिभिः । नु । अद्य । सः । पौंस्येभिः । अभिभूः । अशस्तीः । मरुत्वान् । नः । भवतु । इन्द्रः । ऊती ॥saḥ | grāmebhiḥ | sanitā | saḥ | rathebhiḥ | vide | viśvābhiḥ | kṛṣti-bhiḥ | nu | adya | saḥ | paiṃsyebhiḥ | abhi-bhūḥ | aśastīḥ | marutvān | naḥ | bhavatu | indraḥ | ūtī