Garbha
शरीरमिति कस्मात् साक्षादग्नयो ह्यत्र श्रियन्ते—ज्ञानाग्निर्दर्शनाग्निः कोष्ठाग्निरिति ।
तत्र कोष्ठाग्निर्नामाशितपीतलेह्यचोष्यं पचतीति ।
दर्शनाग्निः रूपादीनां दर्शनं करोति ।
ज्ञानाग्निः शुभाशुभं च कर्म विन्दति ।
तत्र त्रीणि स्थानानि भवन्ति—हृदये दक्षिणाग्निरुदरे गार्हपत्यं मुखमाहवनीयम् ।
आत्मा यजमानो बुद्धिं पत्नीं निधाय मनो ब्रह्मा लोभादयः पशवो धृतिर्दीक्षा सन्तोषश्च बुद्धीन्द्रियाणि यज्ञपात्राणि कर्मेन्द्रियाणि हवींषि शिरः कपालं केशा दर्भा मुखमन्तर्वेदिः ।
चतुष्कपालं शिरः षोडश पार्श्वदन्तोष्ठपटलानि सप्तोत्तरं मर्मशतं साशीतिकं सन्धिशतं सनवकं स्नायुशतं सप्त शिरासतानि पञ्च मज्जाशतानि अस्थीनि च ह वै त्रीणि शतानि षष्टिश्चार्धचतस्रो रोमाणि कोट्यः ।
हृदयं पलान्यष्टौ द्वादश पलानि जिह्वा पित्तप्रस्थं कफस्याढकं शुक्लं कुडवं मेदः प्रस्थौ द्वावनियतं मूत्रपुरीषमाहारपरिमाणात् ।
पैप्पलादं मोक्षशास्त्रं परिसमाप्तम् । पैप्पलादं मोक्षशास्त्रं परिसमाप्तमिति ॥५॥
शरीरम् । इति । कस्मात् । साक्षात् । अग्नयः । हि । अत्र । श्रियन्ते । ज्ञान-अग्निः । दर्शन-अग्निः । कोष्ठ-अग्निः । इति ।
तत्र । कोष्ठ-अग्निः । नाम । अशित-पीत-लेह्य-चोष्यम् । पचति । इति ।
दर्शन-अग्निः । रूप-आदीनाम् । दर्शनम् । करोति ।
ज्ञान-अग्निः । शुभ-अशुभम् । च । कर्म । विन्दति ।
तत्र । त्रीणि । स्थानानि । भवन्ति । हृदये । दक्षिण-अग्निः । उदरे । गार्हपत्यम् । मुखम् । आहवनीयम् ।
आत्मा । यजमानः । बुद्धिम् । पत्नीम् । निधाय । मनः । ब्रह्मा । लोभ-आदयः । पशवः । धृतिः । दीक्षा । सन्तोषः । च । बुद्धि-इन्द्रियाणि । यज्ञ-पात्राणि । कर्म-इन्द्रियाणि । हवींषि । शिरः । कपालम् । केशाः । दर्भाः । मुखम् । अन्तर्-वेदीः ।
चतुः-कपालम् । शिरः । षोडश । पार्श्व-दन्त-ओष्ठ-पटलानि । सप्त-उत्तरम् । मर्म-शतम् । स-अशीतिकम् । सन्धि-शतम् । स-नवकम् । स्नायु-शतम् । सप्त । शिरा-शतानि । पञ्च । मज्जा-शतानि । अस्थीनि । च । ह । वै । त्रीणि । शतानि । षष्टिः । च । अर्ध-चतस्रः । रोमाणि । कोट्यः ।
हृदयम् । पलानि । अष्टौ । द्वादश । पलानि । जिह्वा । पित्त-प्रस्थम् । कफस्य । आढकम् । शुक्लम् । कुडवम् । मेदः । प्रस्थौ । द्वौ । अनियतम् । मूत्र-पुरीषम् । आहार-परिमाणात् ।
पैप्पलादम् । मोक्ष-शास्त्रम् । परिसमाप्तम् । पैप्पलादम् । मोक्ष-शास्त्रम् । परिसमाप्तम् । इति ॥
śarīram iti kasmāt sākṣād agnayo hy atra śriyante—jñānāgnir darśanāgniḥ koṣṭhāgnir iti |
tatra koṣṭhāgnir nāmāśitapītalehyacoṣyaṃ pacatīti |
darśanāgniḥ rūpādīnāṃ darśanaṃ karoti |
jñānāgniḥ śubhāśubhaṃ ca karma vindati |
tatra trīṇi sthānāni bhavanti—hṛdaye dakṣiṇāgnir udare gārhapatyaṃ mukham āhavanīyam |
ātmā yajamāno buddhiṃ patnīṃ nidhāya mano brahmā lobhādayaḥ paśavo dhṛtir dīkṣā santoṣaś ca buddhīndriyāṇi yajñapātrāṇi karmendriyāṇi havīṃṣi śiraḥ kapālaṃ keśā darbḥā mukham antarvediḥ |
catuṣkapālaṃ śiraḥ ṣoḍaśa pārśvadantoṣṭhapaṭalāni saptottaraṃ marmaśataṃ sāśītikaṃ sandhiśataṃ sanavakaṃ snāyuśataṃ sapta śirāsatāni pañca majjāśatāni asthīni ca ha vai trīṇi śatāni ṣaṣṭiś cārdhacatasro romāṇi koṭyaḥ |
hṛdayaṃ palāny aṣṭau dvādaśa palāni jihvā pittaprasthaṃ kaphasyāḍhakaṃ śuklaṃ kuḍavaṃ medaḥ prasthau dvāv aniyataṃ mūtrapurīṣam āhāraparimāṇāt |
paippalādaṃ mokṣaśāstraṃ parisamāptam | paippalādaṃ mokṣaśāstraṃ parisamāptam iti ||5||
Pourquoi l’appelle-t-on « corps » ? Parce qu’ici, manifestement, des feux y sont établis : le feu de la connaissance, le feu de la perception et le feu gastrique. Parmi eux, le feu gastrique cuit ce qui est mangé, bu, léché et sucé. Le feu de la perception opère la perception des formes et autres. Le feu de la connaissance discerne l’acte bon et l’acte mauvais. Ici se trouvent trois demeures : dans le cœur, le feu Dakṣiṇa ; dans le ventre, le Gārhapatya ; la bouche est l’Āhavanīya. Le Soi est le sacrifiant ; ayant placé l’intellect comme épouse, le mental est Brahmā ; l’avidité et le reste sont les animaux ; la constance est la consécration (dīkṣā), ainsi que le contentement ; les organes de connaissance sont les vases sacrificiels ; les organes d’action sont les oblations ; la tête est le bol-crâne ; les cheveux sont l’herbe darbha ; la bouche est l’autel intérieur. La tête est un crâne à quatre parties ; il y a seize (séries de) dents latérales, lèvres et palais ; cent sept points vitaux ; cent quatre-vingts articulations ; cent neuf ligaments ; sept cents vaisseaux ; cinq cents moelles ; et, en vérité, trois cent soixante os ; et trois crores et demi de poils. Le cœur pèse huit palas ; la langue douze palas ; la bile est d’un prastha ; le flegme d’un āḍhaka ; le sperme d’un kuḍava ; la graisse de deux prasthas ; l’urine et les excréments sont indéterminés, selon la mesure de la nourriture. Le traité de libération de Paippalāda est achevé ; le traité de libération de Paippalāda est achevé.
Why is it called ‘body’? Because here, manifestly, fires are established: the fire of knowledge, the fire of perception, and the gastric fire. Of these, the gastric fire cooks what is eaten, drunk, licked, and sucked. The fire of perception effects the perception of forms and the like. The fire of knowledge discerns good and bad action. Here there are three stations: in the heart, the Dakṣiṇa fire; in the belly, the Gārhapatya; the mouth is the Āhavanīya. The Self is the sacrificer; having placed intellect as the wife, the mind is Brahmā; greed and the rest are the animals; fortitude is the consecration; contentment too; the organs of knowledge are the sacrificial vessels; the organs of action are the oblations; the head is the skull-bowl; the hairs are the darbha-grass; the mouth is the inner altar. The head is a fourfold skull; there are sixteen (sets of) side-teeth, lips, and palates; one hundred and seven vital spots; one hundred and eighty joints; one hundred and nine ligaments; seven hundred vessels; five hundred marrows; and indeed three hundred and sixty bones; and three and a half crores of hairs. The heart weighs eight palas; the tongue twelve palas; bile is one prastha; phlegm one āḍhaka; semen one kuḍava; fat two prasthas; urine and feces are indeterminate, according to the measure of food. The Paippalāda treatise on liberation is concluded; the Paippalāda treatise on liberation is concluded.